निरुक्त-पाणिनिव्याकरणयोः पारिभाषिकशब्दानां परिशीलनम्

संस्कृतवाङ्मये विद्यमानेषु चतुर्दशविद्यास्थानेषु निरुक्तमन्यतमत्वेन परिगण्यते। सर्वैः शास्त्रैः सह सर्वेषां शास्त्राणामन्तरङ्गत्वं संस्कृतज्ञानपरम्परायाः महत्वपूर्णमेकं वैशिष्ट्यम्। अतो वेदपुरुषस्य श्रोत्रत्वेन परिगण्यमानेन, निरुक्तेन सह व्याकरणस्यापि कश्चिद् सम्बन्धो वर्तते। स्वीयेन निरुक्तकारेणापि...

Full description

Bibliographic Details
Main Author: Subir Dolui
Format: Article
Language:English
Published: SUGYAN KUMAR MAHANTY 2022-06-01
Series:Prachi Prajna
Subjects:
Online Access:https://drive.google.com/file/d/1N0Qf2UokcJ7nER_qnVtZnRSVKjT0Muyz/view
Description
Summary:संस्कृतवाङ्मये विद्यमानेषु चतुर्दशविद्यास्थानेषु निरुक्तमन्यतमत्वेन परिगण्यते। सर्वैः शास्त्रैः सह सर्वेषां शास्त्राणामन्तरङ्गत्वं संस्कृतज्ञानपरम्परायाः महत्वपूर्णमेकं वैशिष्ट्यम्। अतो वेदपुरुषस्य श्रोत्रत्वेन परिगण्यमानेन, निरुक्तेन सह व्याकरणस्यापि कश्चिद् सम्बन्धो वर्तते। स्वीयेन निरुक्तकारेणापि ‘तदिदं विद्यास्थानं व्याकरणस्य कार्त्स्न्यं’ वचनेनेदं स्पष्टीकृतम्। संस्कृतवाङ्मये पारिभाषिकशब्दानां सुष्ठुव्यवहारः प्राचीनकालादाराभ्य अद्यप्रभृतिः निरवच्छिन्नेन प्रचलति। अतः बहुचर्चितविषयोऽयं नास्ति सन्देहावकाशः। विषयेऽस्मिन् विशेषतः निरुक्तोक्तैः पारिभाषिकशब्दैः सह अष्टाध्यायीति व्याकरणान्तर्गतानां पारिभाषिकशब्दानां तुलनात्मकसमीक्षैव नूतनतात्र। उभयोः सिद्धान्ते मतपार्थ्यक्यं, स्यादेव। तयोः आचार्ययोः मतपार्थक्ययोः किमस्ति कारणं, युक्तिः, तथा च व्याकरणादिषु शास्त्रेषु निरुक्तस्य किमवदानं स्याद्, अस्मिन्विषये मामकी युक्तिः पत्रेऽस्मिन् स्थानं लभते।
ISSN:2348-8417