धर्मसापेक्षं विश्वम्

धर्मो विश्वस्य जगतः प्रतिष्ठा। लोके धर्मिष्ठं प्रजा उपसर्पन्ति। धर्मेण पापमपनुदन्ति। धर्मे सर्वं प्रतिष्ठितम्। तस्माद्धर्मं परमं वदन्ति। वचनमिदं समग्रविश्वप्रतिष्ठायाः उत्पत्तिस्रोतस्तु धर्मः इति सिद्धिं करोति। यथा शरीरे प्राणस्य अस्तित्वं, तथैव समग्रविश्वे धर्मस्य स्थितिः। धर्म एव कस्यचिदपि राष्ट्र...

Full description

Bibliographic Details
Main Author: ममि महान्तः
Format: Article
Language:English
Published: SUGYAN KUMAR MAHANTY 2022-12-01
Series:Prachi Prajna
Subjects:
Online Access:https://drive.google.com/file/d/13Ijkpa-djZJkkfl180hxeDK5Swyg8u23/view
Description
Summary:धर्मो विश्वस्य जगतः प्रतिष्ठा। लोके धर्मिष्ठं प्रजा उपसर्पन्ति। धर्मेण पापमपनुदन्ति। धर्मे सर्वं प्रतिष्ठितम्। तस्माद्धर्मं परमं वदन्ति। वचनमिदं समग्रविश्वप्रतिष्ठायाः उत्पत्तिस्रोतस्तु धर्मः इति सिद्धिं करोति। यथा शरीरे प्राणस्य अस्तित्वं, तथैव समग्रविश्वे धर्मस्य स्थितिः। धर्म एव कस्यचिदपि राष्ट्रस्य चेतनास्वरूपम्, येन विना समग्रविश्वं जीवनरहितं भवति। विश्ववासिनां जनानामभ्युदयनिः श्रेयस्य सिद्ध्यर्थं जगति विद्यमानस्य धर्मस्य महती प्रतिष्ठा वर्त्तते। एवं पाञ्चभौतिकं शरीरं परित्यज्यं पारलौकिकं यात्रा प्रारम्भमाणे जीवः धर्मरूपं पाथेयमादायैव परलोकं गच्छति। अत्रोक्तं महर्षिणा - धनानि भूमौ पशवश्च गोष्ठे नारी गृहद्वारि जनाः श्मशाने। देहश्चितायां परलोकमार्गे धर्मानुगो गच्छति जीवः एकः॥ इति अर्थात् असारे खलु संसारे यं यमाश्रित्यानि अनेकविधानि पापानि आचरति जीवस्तानि सर्वाणि धनादिप्रभृतीनि वस्तूनि अन्तकाले परित्यज्य धर्मेणानुगम्यमानः भूत्वा पारलौकिकीं यात्रां करोति। संस्कृतजगति धर्मशब्दस्य बहुष्वर्थेषु प्रयोगः भवति। कुत्रचिद्धर्मशब्दः संज्ञारूपे, कुत्रचिद्विशेषणरूपे, कुत्रचित् आचारव्यवहारकर्त्तव्यार्थे, कुत्रचित्प्राचीनरीतिनितः। एवं परम्परारूपे, एवं वर्णाश्रमव्यवस्थारूपेण व्यवह्रियते। धर्मः सर्वप्रथमं मानवान् विवेकविरोधीसामर्थविरोधी च कार्यं वारयति। ततः विश्वे मानवः वीतक्रोधभयरागरहितः सन्नश्वरजीवनस्य चरमलक्ष्यं सुलभेन प्राप्नुवति। विश्वे स्थितः सामाजिकः आर्थिकः तथा राजनैतिकव्यवस्थानां समुचितं सम्पादनाय धर्म एव सापेक्षः। धर्मस्याभिप्रायः शैव-विष्णवादिधर्मेण सह न अपितु उत्तमाचरणः नीतिपरकव्यवहारः तथा शास्त्रविहितकर्मणा सह समन्वयते। धर्म हि प्राणीहिताय, समाजहिताय, राष्ट्रहिताय च प्रवर्त्तते। तर्हि कोऽस्ति धर्मः। कथं सः प्राप्यते? किं तत्स्वरूपम्? धर्मं विनाऽपि किं कोऽपि मानवो जीवितुं शक्यते। विश्वे कोऽपि राष्ट्रो धर्मापक्षां विना वा समुन्नतिपथं गन्तुं शक्नोति? एते सर्वे प्रश्नाः बुद्धौ प्रायः उद्भवन्ति| तेषां विचारः मया प्रस्तूयते शोधलेखेऽस्मिन्।
ISSN:2348-8417